|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.74. अध्यायः 074
Mahabharata - Udyoga Parva - Chapter Topics
श्रीकृष्णेन भीमंप्रति तत्प्रतिज्ञानुस्मारणपूर्वकं युद्धप्रोत्साहनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच। 5-74-0x(3623)(34492)
एतछ्रुत्वा महाबाहुः केशवः प्रहसन्निव।
अभूतपूर्वं भीमस्य मार्दवोपहितं वचः ॥ 5-74-1(34493)
गिरेरिव लघुत्वं तच्छीतत्वमिव पावके।
मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम् ॥ 5-74-2(34494)
सन्तेजसंस्तदा वाग्भिर्भातरिश्वेव पावकम्।
उवाच भीममासीनं कृपयाऽभिपरिप्लुतम् ॥ 5-74-3(34495)
श्रीभगवानुवाच। 5-74-4x(3624)
त्वमन्यदा भीमसेन युद्धमेव प्रशंससि।
वधामिनन्दिनः क्रूरान्धार्तराष्ट्रन्मिमर्दिषुः ॥ 5-74-4(34496)
न च स्वपिषि जागर्षि न्युब्जः शेषे परन्तप ।
घोरामशान्तां रुशतीं सदा वाचं प्रभाषसे ॥ 5-74-5(34497)
निःश्वसन्नग्निवत्तेन सन्तप्तः स्वेन मन्युना ।
अप्रशान्तमना भीम सधूम इव पावकः ॥ 5-74-6(34498)
एकान्ते निःश्वसञ्शेपे भारार्त इव दुर्बलः ।
अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः ॥ 5-74-7(34499)
आरुज्य वृक्षान्निर्मूलान्गजः परिरुजन्निव ।
निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि ॥ 5-74-8(34500)
नास्मिञ्जने न रमसे रहः क्षिपसि पाण्डव ।
नान्यं निशि दिवा चापि कदाचिदभिनन्दसि ॥ 5-74-9(34501)
अकस्मात्स्मयमानश्च रहस्यास्से रुदन्निव।
जान्वोर्मूर्धानमाधाय चिरमास्ते प्रमीलितः ॥ 5-74-10(34502)
भ्रुकिटिं च पुनः कुर्वन्नोष्ठौ च विदशन्निव ।
अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम् ॥ 5-74-11(34503)
यथा तपुरस्तात्सविता दृश्यते शुक्रमुच्चरन् ।
यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान् ॥ 5-74-12(34504)
तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः ।
हन्ताहं गदयाभ्येत्य दुर्योधनममर्पणम् ॥ 5-74-13(34505)
इति स्म मध्ये भ्रातृणां सत्येनालभसे वदाम्।
तस्य ते प्रशमे बुद्धिर्ध्रियतेऽद्य परन्तप ॥ 5-74-14(34506)
अहो युद्धाभिकाङ्क्षाणां युद्धकाल उपस्थिते ।
चेतांसि विप्रतीपानि यत्त्वां भीभीम विन्दति ॥ 5-74-15(34507)
अहो पार्थ निमित्तानि विपरीतानि पश्यसि।
स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि ॥ 5-74-16(34508)
अहो नाशंससे किंचित्पुंस्त्वं क्लीब इवात्मनि ।
कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः ॥ 5-74-17(34509)
उद्वेपते ते हृदयं मनस्ते प्रतिसीदति ।
ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि ॥ 5-74-18(34510)
अनित्यं किल मर्त्यस्य पार्थ चित्तं चलाचलम् ।
वातवेगप्रचलिता अष्ठीला शाल्मलेरिव ॥ 5-74-19(34511)
तवैषा विकृता बुद्धिर्गवां वागिव मानुषी ।
मनांसि पाण्डुपुत्राणां मञ्जयत्यप्लवानिव ॥ 5-74-20(34512)
इदं मे महादाश्चर्यं पर्वतस्येव सर्पणम्।
यदीदृशं प्रभाषेथा भीमसेनासमं वचः ॥ 5-74-21(34513)
स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत ।
उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव ॥ 5-74-22(34514)
न चैतदनुरूपं ते यत्ते ग्लानिररिन्दम।
यदोजसा न लभते क्षत्रियो न तदश्रुते ॥ ॥ 5-74-23(34515)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुःसप्ततितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-74-6 अग्निवत् अग्निनेव ॥ 5-74-8 आरुज्य भङ्क्त्वा ॥ 5-74-9 अस्मिन्वने। जनेन ब्राह्मणरामूहेन। क्षिपसि नपसि कालमिति शेषः ॥ 5-74-12 शुक्रं तेजः। निर्मुक्तोऽस्तं गतः। ध्रुवं निश्चयं पुनः पर्येति मेरुं पुनःपुनः प्रदक्षिणीकरोति ॥ 5-74-19 अष्ठीला फलान्तर्ग्रन्थिः । सा च शाल्मलेः केवलं तूलमयी भवति ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|